Sbg 13.19 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।13.19।।प्रतिज्ञातार्थमुपपाद्योपसंहरति -- इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं? तथा ज्ञानममानित्वादि तत्त्वज्ञानार्तदर्शनावसानं? ज्ञेयं च ज्ञेयं यत्तदित्यादि तमसः परमुच्यत इत्येवमन्तमुक्तं। हृदि सर्वस्य विष्ठितमित्यन्तमित्याधुनिकानामुक्तस्तु नादर्तव्या। ज्ञानादेर्ज्ञेयप्रवचनपरत्वेऽस्वरसस्योक्तत्वात्। वसिष्ठादिभिर्यद्विस्तरेण गीतं तत्समासतः संक्षेपतो मया प्रतिपादितं एतावानेव सर्ववेदार्थो गीतार्थश्चातः संक्षिप्य भगवतोपसंहृत्योक्तः। यथोक्तसम्यग्दर्शने कोऽधिकारित्यत आह। मयि सर्वेश्वरे सर्वज्ञे परमगुरौ भगवति वासुदेवे यच्छ्रणोति स्पृशति पश्यति आस्वादयति जिघ्रति वा सर्वेमेव श्रीभगवान्वासुदेव इत्येवं ग्रहाविष्टबुद्धितया समर्पितसर्वात्मभावो मद्भक्तः एतादृशः सन्नेतद्यथोक्तं क्षेत्रज्ञानज्ञयानां याथात्म्यं विज्ञाय मद्भवाय परमात्मभावाय मोक्षायोपपद्यते योग्यो भवतीत्यर्थः।