Sbg 13.18 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।13.18।।ज्योतिषामिति। प्रकाशकानां चेतनानां च तन्मूलं ज्योतिरध्यात्मरूपं प्रकाशकं। अतएवोक्तं -- चैत्त्यस्य तत्त्वममलं मणिमस्य कण्ठे [भाग.3।38।28] इति। तमसः प्रकृतेः परं तम आसीत्तमसा गूह्ळमग्रे प्रकेतं [ऋक्सं.8।7।17।3] इति श्रुतावप्युच्यते। अन्तर्यामिपदं च तदित्याह -- हृदि सर्वस्य धिष्ठितमिति स्पष्टम्। ज्ञायतेऽनेनेति ज्ञानं चैतन्यं ज्ञानसाधनं अमानित्वादिरूपं वा। तत्तु ज्ञेयं च तज्ज्ञानगम्य हृदि सर्वस्य धिष्ठितम्।