Sbg 13.17 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।13.17।। --, अविभक्तं च प्रतिदेहं व्योमवत् तदेकम्। भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं देहेष्वेव विभाव्यमानत्वात्। भूतभर्तृ च भूतानि बिभर्तीति तत् ज्ञेयं भूतभर्तृ च स्थितिकाले। प्रलयकाले गृसिष्णु ग्रसनशीलम्। उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं यथा रज्जवादिः सर्पादेः मिथ्याकल्पितस्य।।किञ्च? सर्वत्र विद्यमानमपि सत् न उपलभ्यते चेत्? ज्ञेयं तमः तर्हि न। किं तर्हि --,