Sbg 13.15 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।13.15।।पृथिव्यादीनि भूतानि परित्यज्य अशरीरो बहिः वर्तते तेषाम् अन्तः च वर्तते।जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा (छा0 उ 0 8।12।3) इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु? अचरं चरम् एव च -- स्वभावतः अचरं चरं च देहित्वे। सूक्ष्मत्वात् तद् अविज्ञेयम्? एवं सर्वशक्तियुक्तं सर्वज्ञं तद् आत्मतत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अपि अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिः अविज्ञेयम्। दूरस्थं च अन्तिके च तत्? अमानित्वाद्युक्तगुणरहितानां विपरीतगुणानां पुंसां स्वदेहे वर्तमानम् अपि अतिदूरस्थम्? तथा अमानित्वादिगुणोपेतानां तद् एव अन्तिके च वर्तते।