Sbg 13.15 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.15।।अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति न्यायमनुसृत्य सर्वप्रपञ्चाध्यारोपेणानादिमत्परं ब्रह्मेति व्याख्यातम्। अधुना तदपवादेन न सत्तन्नासदुच्यत इति व्याख्यातुमारभते निरुपाधिस्वरूपज्ञानाय -- सर्वेन्द्रियेति। परमार्थतः सर्वेन्द्रियविवर्जितं तन्मायया सर्वेन्द्रियगुणाभासं सर्वेषां बहिःकरणानां श्रोत्रादीनामन्तःकरणयोश्च बुद्धिमनसोर्गुणैरध्यवसायसंकल्पश्रवणवचनादिभिस्तत्तद्विषयरूपतयाऽवभासत इव सर्वेन्द्रियव्यापारैर्व्यापृतमिव तज्ज्ञेयं ब्रह्मध्यायतीव लेलायतीव इति श्रुतेः। अत्र ध्यानं बुद्धीन्द्रियव्यापारोपलक्षणम्। लेलायनं चलनं कर्मेन्द्रियव्यापारोपलक्षणार्थम्। तथा परमार्थतोऽसक्तं सर्वसंबन्धशून्यमेव मायया? सर्वभृच्च सदात्मना सर्वं कल्पितं धारयति पोषयतीति च सर्वभृत् निरधिष्ठानभ्रमायोगात्। तथा परमार्थतो निर्गुणं,सत्त्वरजस्तमोगुणरहितमेव गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारा सुखदुःखमोहाकारेण परिणतानां भोक्तृ उपलब्धं च तज्ज्ञेयं ब्रह्मेत्यर्थः।