Sbg 13.15 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।13.15।।अहं परा शक्तिर्यस्येति व्याख्यानेऽर्थासम्भवं कश्चिदन्यथा प्राह -- ब्रह्मणः सर्वविशेषप्रतिषेधेनैवात्र तदविजिज्ञापयिषितत्वात्। शक्तिमत्त्वप्रतिपादनं विरुद्धम् इति। तदसत्? अत्र विशेषवत्त्वस्य दर्शनादिति भावेनाह -- सर्वे ति। गुणांस्तद्विषयानाभासयति प्रत्याययति प्रत्येतीति वा। भासतेः पचाद्यत्। एवंसर्वतःपाणिपादं तत् [13।14]सर्वभृत् गुणभोक्तृ च इत्यादिकमप्युदाहार्यम्। कथं तर्हि सर्वेन्द्रियविवर्जितं निर्गुणमचरमित्याद्युक्तमित्यत आह -- इन्द्रिये ति। आदिशब्दात्परं शब्देत्यध्याहार्यम्। पुरस्तात् द्वितीये।