Sbg 13.14 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।13.14।।आत्मस्वरूपस्याशरीरत्वान्निरवयवत्वान्निरिन्द्रियत्वाच्च पाणिपादप्रसङ्ग एव नास्ति? न चेदमनेकबाहुत्वादिप्रागुक्तपरं? जीवप्रकरणत्वस्थापनात् अतएव जीवकर्मगृहीतैः स्वेच्छागृहीतैश्च पाण्यादिभिर्विश्वात्मकस्य ब्रह्मणो योग उच्यत इत्यादिकल्पनाऽपि निरस्ता पादादिषु पाण्याद्यभावाच्च सर्वत इत्यपि न घटते तत्कथं सर्वतःपाणिपादत्वादिकं इत्यत्राह -- परिशुद्धेति। पाण्यादिरहितस्यापि परिशुद्धात्मनः पाण्यादिशब्दलक्षिते शक्तियोगे श्रुतिं दर्शयितुं परमात्मनस्तद्रहितस्यापि तच्छक्तियोगं तावद्दर्शयति -- अपाणीति। अपाणिपादः [श्वे.उ.3।19] इति निषेध्यस्य कर्मेन्द्रियवर्गस्योपलक्षणम् अचक्षुरकर्णः [श्वे.उ.3।19] इति ज्ञानेन्द्रियवर्गस्य। तर्हि परमात्मासाधारणस्वभावस्यात्र अल्पशक्तौ जीवे कथं व्यपदेशः इत्यत्राह -- प्रत्यगात्मनोऽपीति। मुक्तदशायां ब्रह्मगुणाष्टकयोगादसङ्कुचितज्ञानशक्तेस्तदुपपत्तिरिति भावः। साम्यश्रुतिसङ्कोचाभावाद्विशेषकण्ठोक्त्यभावेऽपि सर्वतःपाणिपादत्वादिकं सिद्धमेवेत्यभिप्रायेणैवकारः। साम्यापत्तिमात्रे सर्वथासाम्यं कथं श्रुतिसिद्धं इत्यत्राह -- तदेति। इदं हि परमसाम्यं जगद्व्यापारव्यतिरिक्तसर्वविषयमिति फलपादे मीमांसितमिति भावः। स च श्रुत्यर्थोऽत्राप्युपदेक्ष्यते? तद्विवक्षाऽत्र युक्तेत्याह -- इदं ज्ञानमिति।तिष्ठति इत्यत्र व्याप्तेरप्रच्युतिर्विवक्षिता। कर्मवेष्टितज्ञानस्याणोः कथं सर्वव्यापिस्थितिरित्यत्राह -- परिशुद्धेति। इदं च व्यापकत्वं धर्मभूतज्ञानद्वारेति निरूपितं शारीरकेप्रदीपवदावेशस्तथाहि दर्शयति [ब्र.सू.4।4।15] इत्यादिना? जीवस्वरूपस्याणुत्वेनैव लक्षणात्? निर्विकारश्रुत्या च स्वरूपविकारायोगात्।