Sbg 13.14 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।13.14।।तत्साकारं निराकारं वा इत्याशङ्क्याऽऽह -- सर्वतःपाणिपादान्तमिति। साकारमेव सर्वत्र प्रदेशे पाणयः पादा अन्ता यस्य। गतिकृतिलक्षणे क्रिये सर्वत्र अन्तपदेन स्वेच्छया परिच्छेदावभानं चोक्तम्। सर्वतोऽक्षिशिरोमुखं इति ज्ञानप्राधान्यभोगाश्च सर्वत्र चोक्ताः। नामप्रपञ्चार्थमाह -- सर्वत्र श्रुतिमल्लोक इति। सर्वतः शृणोतीत्यर्थः। एतादृशस्य परिच्छेदः सम्भविष्यतीत्याह -- सर्वमावृत्य तिष्ठतीति। एते धर्माः प्रपञ्चोत्पत्त्यनन्तरमेव स्पष्टा भवन्ति? तथापि तेषां नित्यत्वख्यापनाय प्रथमतो वचनम्।