Sbg 13.14 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।13.14।। सर्वेन्द्रियगुणाभासं सर्वेन्द्रियगुणैः आभासो यस्य तत् सर्वेन्द्रियगुणाभासम्। इन्द्रियगुणा इन्द्रियवृत्तयः? इन्द्रियवृत्तिभिः अपि विषयान् ज्ञातुं समर्थम् इत्यर्थः। स्वभावतः सर्वेन्द्रियविवर्जितं विना एव इन्द्रियवृत्तिभिः स्वत एव सर्वं जानाति इत्यर्थः। असक्तं स्वभावाद् एव देवादिदेहसङ्गरहितम्? सर्वभृत् च एव देवादिसर्वदेहभरणसमर्थं च।स एकधा भवति (द्विधा भवति) त्रिधा भवति (छा0 उ 0 7।26।2) इत्यादिश्रुतेः। निर्गुणं तथा स्वभावतः सत्त्वादिगुणरहितं गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थं च।