Sbg 13.13 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।13.13।।ज्ञेयस्वरूपमाह षड्भिः स्वगुणरूपैः ज्ञेयमिति। शास्त्रतः ज्ञानिभिरधिगम्यम्। ज्ञानस्य फलमाह अमृतमिति। ज्ञेयं नामरूपलक्षणतो निर्दिशति -- अनादिमत्परं ब्रह्मेति। सर्ववेदान्तप्रतिपाद्यं यत्। यद्वा अहं परो यस्मात्तदक्षरं इति च। विरुद्धर्माश्रयं च तदित्याह -- न सत्तन्नासदिति। असत्त्वं सत्त्वं च विरुद्धौ धर्मौ तयोराश्रयंनहि विरोध उभयं भगवत्यपरिगणितगुणगण ईश्वरे इत्यादि भागवतवाक्यैरुच्यते।