Sbg 13.13 scsh
Sanskrit Commentary By Sri Shankaracharya ।।13.13।। --, ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि। किं फलं तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय आह -- यत् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते? न पुनः म्रियते इत्यर्थः। अनादिमत् आदिः अस्य अस्तीति आदिमत्? न आदिमत् अनादिमत् किं तत् परं निरतिशयं ब्रह्म? ज्ञेयम् इति प्रकृतम्।।अत्र केचित् अनादि मत्परम् इति पदं छिन्दन्ति? बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात् इति। अर्थविशेषं च दर्शयन्ति -- अहं वासुदेवाख्या परा शक्ितः यस्य तत् मत्परम् इति। सत्यमेवमपुनरुक्तं स्यात्? अर्थः चेत् संभवति। न तु अर्थः संभवति? ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् न सत्तन्नासदुच्यते इति। विशिष्टशक्ितमत्त्वप्रदर्शनं विशेषप्रतिषेधश्च इति विप्रतिषिद्धम्। तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः।।अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह -- न सत् तत् ज्ञेयमुच्यते इति न अपि असत् तत् उच्यते।।