Sbg 13.13 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।13.13।। सर्वतःपाणिपादं तत् परिशुद्धात्मस्वरूपं सर्वतःपाणिपादकार्यशक्तम्? तथा सर्वतोऽक्षिशिरोमुखम् सर्वतःश्रुतिमत् सर्वतश्चक्षुरादिकार्यकृत् --,अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः (श्वे0 उ 0 3।19) इति परस्य ब्रह्मणः अपाणिपादस्य अपि सर्वतःपाणिपादादिकार्यकर्तृत्वं श्रूयते। प्रत्यगात्मनः अपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतःपाणिपादादिकार्यकर्तृत्वं श्रुतिसिद्धम् एव।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्युपैति (मु0 उ
0
3।1।3) इति हि श्रूयते।इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। (गीता 14।2) इति च वक्ष्यते।
लोके सर्वम् आवृत्य तिष्ठति
इति। लोके यद् वस्तुजातं तत् सर्वं व्याप्य तिष्ठति परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतम् इत्यर्थः।।