Sbg 13.13 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।13.13।।एवं ज्ञानस्वरूपमु क्त्वा৷৷৷৷৷৷৷৷৷৷৷৷. तेन ज्ञेयस्वरूपमाह -- ज्ञेयमित्यादिषड्भिः। स्वगुणरूपैरेवं पूर्वोक्तसाधनैर्यत् ज्ञेयं तत् प्रकर्षेण सर्वाङ्गयुक्तं वक्ष्यामि? कथयामीत्यर्थः। तत्कथनप्रयोजनमाह -- यत् ज्ञात्वा अमृतं मोक्षं अश्नुते प्राप्नोति। एवं कथनं प्रतिज्ञाय तत्स्वरूपमाह -- अनादीति। न विद्यते आदिरुत्पत्तिर्यस्य तादृशं? मत्परं अहमेव परो यस्य मत्स्थानभूतं ब्रह्म बृहत् व्यापकं च। तदेवाह -- न सत् सन्न भवति। तर्ह्यसद्भवति इति चेदित्याशङ्क्याह -- तत् असत् न उच्यते। सदसदनिश्चयोक्त्या दुर्ज्ञेयत्वेन ब्रह्मत्वं प्रतिपादितम्।