Sbg 13.13 scneel
Sanskrit Commentary By Sri Neelkanth ।।13.13।।एवं क्षेत्रं व्याख्याय स च यो यत्प्रभावश्चेत्युक्तं क्षेत्रज्ञस्वरूपं तस्य मायिकं प्रभावं व्याचष्टे -- ज्ञेयमिति। एतैर्ज्ञानसाधनैर्यज्ज्ञेयं तत्प्रवक्ष्यामि। यज्ज्ञेयं ज्ञात्वा अमृतं मोक्षमश्नुते प्राप्नोति। तस्य स्वरूपं तावदाह -- अनादिमदिति। आदिमत् अव्यक्तम्तस्मादव्यक्तमुत्पन्नम् इति तदुत्पत्तिस्मरणात्। तदन्यदनादिमत्। अनादीत्येतावत्युक्ते प्रवाहनित्यत्वमव्यक्तादीनामप्यस्तीति तेषामप्यनादितायां प्राप्तायां तत्प्रतिषेधार्थमनादिमदित्युक्तम्। यद्वा आदिमच्च ततः परं चादिमत्परे कार्यकारणे ताभ्यामन्यदनादिमत्परमिति। अतएव परं निर्विशेषं नत्वपरं सविशेषम्। ब्रह्म त्रिविधपरिच्छेदशून्यम्। न सत् प्रधानपरमाण्वादिवत्सदिति नोच्यते। नाप्यसत् शून्यवदसदपि नोच्यते। तथा च श्रुतिःनासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् इति। असच्छब्दितस्य शून्यस्य सच्छब्दितस्य प्रधानस्य रजःशब्दितानां परमाणूनां परव्योमशब्दितस्य अस्मदभिमतस्याव्यक्तस्यापि सृष्टेः प्राक् निषेधं दर्शयति।