Sbg 13.13 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।13.13।।प्रतिज्ञातार्थद्वयप्रतिपादनायज्ञेयं यत्तत् इत्यादिकं वाक्यमिति सूचितम्? तत्र केन तु किमुच्यते इत्यत आह -- परमि ति। इति नामोक्त्या अन्यत्अनादिमत् इत्यादिकंयत्प्रभावः [13।4] इति प्रतिज्ञातस्य प्रतिपादकमित्यर्थः। आदिरस्यास्तीत्यादिमन्न आदिमदनादिमदिति व्याख्याने न विद्यते आदिरस्येत्यनादीति बहुव्रीहित्वाश्रयणेनैव विवक्षितार्थसिद्धेः मतुपो वैयर्थ्यमिति दोषं पश्यन्तः केचित्अनादि इतिमत्परं इति च पदं विच्छिद्यअहं वासुदेवाख्या परा शक्तिर्यस्य तन्मत्परं इति व्याचक्षते? तदसत्? अर्थासम्भवात् न हि ब्रह्मेति वासुदेवेति कश्चिद्भेदः। न चावतारेषु पारावर्यमित्युक्तमिति भावेन यथा मतुपो न वैयर्थ्यं तथा व्याचष्टे -- आदिमदि ति। आदिर्येषामस्तीत्यादिमन्ति? न विद्यन्ते आदिमन्ति यस्य तदनादिमत्। सामर्थ्यात्तानि देहेन्द्रियगुणक्रियादीनीत्यर्थः। अथवा पूर्वोक्त एव विग्रहः। न च तुमपो वैयर्थ्यं वैदिकं लिङ्गव्यत्ययं विभक्तिलोपं वा मन्यमानस्य बहुव्रीहिर्वा नञ्समासो वाऽयमिति संशयः स्यात्। तथा च ब्रह्म स्वयं कारणं न भवतीत्यपि शङ्क्येत? तन्निवृत्त्यर्थं मतुबन्तेनादिशब्देन नञ्समासस्याश्रयणात् ये त्वेवं प्रयोजनमनभिधाय मतुपः प्रयोगः श्लोकपूरणार्थ इत्युक्तवन्तस्तान्निराचष्टे -- अन्यथे ति। अस्मदुक्तप्रयोजनद्वयानङगीकार इत्यर्थः। सार्थकेन शब्दान्तरेण श्लोकपूरणसम्भवादिति भावः। ननु बहुव्रीहिमाश्रित्य पुनर्मतुपः प्रयोगे दोषः स्यात्? न चैवम् किन्तु शब्दान्तरमेवैतत्? तत्कथमयं दोषः अन्यथायद्विकारि [13।4] इत्यत्रापि दोषप्रसङ्गात्। मैवम्? बहुव्रीहिं विवक्षित्वाऽल्पेन शब्देनाभिमतार्थप्रतिपादनसम्भवे बहुयत्नाश्रयणस्य दोषत्वेनोक्तत्वात्।यद्विकारि इत्यत्र गौरवाभावात्।