Sbg 13.12 scdhan
Sanskrit Commentary By Sri Dhanpati ।।13.12।।किंचात्मानधिकृत्य प्रवृत्तमात्मानात्मविवेकज्ञानमध्यात्मज्ञानं तस्मिन्नित्यभावो नित्यत्वं सततं तत्रैव निष्ठावत्त्वमध्यात्मज्ञाननित्यत्वम्। अमानित्वादिसाधनानां यत्नेन साधितानां प्रकर्षपर्यन्तत्वमिमित्तं तत्त्वज्ञानम्। तदिति सर्वनाम। सर्वं च ब्रह्म तस्य नाम तदिति तस्य ब्रह्मणो भावो याथात्म्यं तस्य ज्ञानं तत्त्वज्ञानंसत्य ज्ञानमनन्तं ब्रह्म? एकमेवाद्वितीयं? नेह नानास्ति किंचन? वाचारम्भणं विकारो नामधेयम् इति श्रुत्युक्तस्य ब्रह्मजगतो याथात्म्यस्य ज्ञानं तत्त्वज्ञानमिति वा तस्यार्थः प्रयोजनं सर्वानर्थनिवृत्तिपरमानन्दप्राप्तिस्वरुपो मोक्षस्तस्य दर्शनम्।न स पुनरावर्तते? इति श्रुत्यायद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति स्मृत्या च तस्यैव नित्यत्वबोधनात्।तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पिण्यचितो लोकः क्षीयते इत्यादिश्रुत्या प्रत्यक्षादिना च धर्मार्थकामानामनित्यत्वागममाच्च मोक्षएव सर्वोत्कृष्टत्वात्परमपुरुषार्थः स च तत्त्वज्ञानस्य फलं नान्यस्य।तरति शोकमात्मवित्तमेव विदित्वादिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय इत्यादिश्रुतेतरित्येवं तत्त्वज्ञानार्तालोचने हि तत्साधनानुष्ठाने प्रवृत्तिर्भवति। एतदमानित्वादितत्त्वज्ञानार्थदर्शनान्तं विंशतिसंख्याकं ज्ञानसाधनत्वाज्ज्ञानमिति प्रोक्तं श्रुतिस्मृतीहासपुराणादिषु प्रकर्षेणोक्तं कथितम्। अतोऽस्माद्यथोक्तादन्यथा च। जन्ममृत्युराव्याधिदुःखदोषाप्रदर्शनम्। तथासक्तिरभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं चासमचित्तत्वमिष्टानिष्टोपपत्तिषु। मयि नानन्ययोगेन भक्तिरव्यभिचारिणी। विकीर्णदेशसेवित्वमरतिर्जनसंसदि। नाध्यात्मज्ञानित्यत्वं ज्ञानार्थादर्शनं तथा। इत्येतज्ज्ञेयज्ञानं हेयं संसारकारणम्। तथा चैतत्परित्यागेन संसारोपरमायामानित्वादिकमुपेयमिति भावः।