Sbg 13.10 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।13.10।।किंच -- असक्तिरिति। असक्तिः पुत्रादिपदार्थेषु प्रीतित्यागः? अनभिष्वङ्गः पुत्रादीनां सुखे दुःखे वाऽहमेव सुखी दुःखी चेत्यध्यासातिरेकाभावः? इष्टानिष्टयोरुपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वम्।