Sbg 12.7 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।12.7।।तेषां तादृशानामहं तत्सन्बध्येवाहमित्यर्थःअहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज। वशे कुर्वन्ति मां भक्त्या सत्िस्त्रयः सत्पतिं यथा [भाग.9।4।63] इति वाक्यात्। न च तादृशानां कथं समुद्धारः सोपाधिभावनिदर्शनादिति वाच्यम् मन्निष्ठत्वेन निर्गुणत्वादित्याह -- मय्यावेशितचेतसामचिरेण समुद्धर्त्ता भवामीति मयि तथा भावकारणे वस्तुशक्तिरेवोद्धारिकान मय्यावेशितधियां कामः कामाय कल्पते इति वाक्यात्। न च तथात्वे तथाभूतानां सोपाधिकभक्तिमत्त्वं सगुणत्वापादकमिति शङ्क्यम् भगवद्रूपत्वेन तत्कामस्य निर्बीजत्वनिदर्शनात्। अतएवोक्तं भगवता -- केवलेन हि भावेन गोप्या गावो नगा मृगाः। येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा [भाग.11।12।8] इतिमन्निष्ठं निर्गुणं मतं इति च। अन्यथा सोपाधिकत्वेन विघातकत्वेन च कामस्य तत्र सत्त्वाद्भगवत्प्राप्तिर्नोक्ता स्यादित्युपरम्यते। इदं च विशेषतः श्रीमत्प्रभुचरणैः स्पष्टीकृतमेवेति ततोऽवसेयम्।