Sbg 12.6 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।12.6।।अक्षरोपासकानां साक्षात्कारेऽपि क्लेशः? मद्भक्तानां तु मत्स्वरूपध्यानेन मत्प्रतिमादिसेवतामप्यहमुद्धारं करोमीत्याह -- ये त्विति द्वाभ्याम्। ये तु सर्वाणि लौकिकवैदिकादीनि मयि मन्निमित्तं सन्न्यस्य त्यागं कृत्वा? मत्पराः अहमेव पर उत्कृष्टः प्राप्यो येषां तादृशाः स
न्तोऽन
न्येनैव योगेन? नैव अन्यो भजनीयो यस्मिंस्तादृशेन भक्तियोगेन मां ध्यायन्तः मद्ध्यानं कुर्वन्त उपासते सेवन्ते मूर्त्यादिष्विति शेषः।