Sbg 12.5 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।12.5।।एवं चेत्तर्हि एतेषां सत्तमतां कुतो न ब्रूषे कुतश्च सगुणोपासकान् सत्तमानुक्तवानसीत्याशङ्क्य स्वस्वरुपाणां सतां युक्ततमत्वस्यायुक्ततमव्वस्य वा वक्तव्यत्वात्सगुणोपासने क्लेशाधिकतराभावच्चेत्याशयेनाह -- क्लेश इति। यद्यपि सगुणोपासकानां मत्कर्मपरायणतादौ क्लेशोऽधिकोऽस्त्येव तथाप्यक्षरोपासकानां देहाभिमानपरित्यागनिबन्धोऽधिकतरः क्लेशः अव्यक्ते करणागोचरे तत्प्राप्त्यर्थमासक्तं चेतश्चित्तं येषां तेषामव्यक्तासक्तचेतसां हि यस्मादव्यक्ताक्षरात्मिका गतिर्देहवद्भिर्देहाभिमानवद्भिर्दुःखं यथा स्यात्तथा। अतिकष्टेनेति यावत्। अवाप्यतेऽतः क्लेशोऽधिकतर इत्युक्तम्।