Sbg 12.4 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।12.4।।एवंविधमक्षरं कथमुपासनीयमित्यत आह -- संनियम्येति। सर्वत्र काले सर्वदा। एतेन ध्यानस्य,नैरन्तर्यमुक्तम्। इन्द्रियग्रामं समनस्कानीन्द्रियाणि संनियम्य एकीभावेनात्मनि वशे कृत्वा। स्वकारणे प्रविलाप्येत्यर्थः। समा चाञ्चल्यहीना बुद्धिर्येषां ते समबुद्धयो ये भवन्ति तेऽपि मामेव निर्विकल्पं परं ब्रह्म परां काष्ठां प्राप्नुवन्ति। श्रुतिश्चयदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्। इति। सर्वभूतहिते रता इत्यनेन सर्वभूताभयदानेन संन्यासोऽपि ध्यानाङ्गमिति विधीयते।