Sbg 12.3 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।12.3।। तर्हि इतरे किं न श्रेष्ठा इत्यत आह -- ये त्विति द्वाभ्याम्। ये त्वक्षरं पर्युपासते ध्यायन्ति तेऽपि मामेव प्राप्नुवन्तीति द्वयोरन्वयः। अक्षरस्य लक्षणमनिर्देश्यमित्यादि। अनिर्देश्यं शब्देन निर्देष्टुमशक्यम्? यतोऽव्यक्तं रूपादिहीनं? सर्वत्रगं सर्वव्यापि? अव्यक्तत्वादेवाचिन्त्यं कूटस्थं कूटे मायाप्रपञ्चे स्थितमधिष्ठानत्वेन स्थितम्? अचलं स्पन्दनरहितं? अतएव ध्रुवं नित्यम् वृद्ध्यादिरहितम्।