Sbg 12.3 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।12.3।।एवं स्वभक्तानामुत्तमत्वमुक्त्वा अक्षरोपासकानां स्वरूपमाह -- ये त्वक्षरमिति द्वयेन। ये तु? तुशब्देन स्वाभिमतत्वं निराकृतम् ये अनिर्देश्यं शब्दाविवेच्यं? अव्यक्तमप्रकटरूपं सर्वत्रगं ध्यानादिदशायामपि हृदयेऽस्थिरस्वभावम्। अतएव अचिन्त्यं चिन्तनायोग्यं रूपाद्यभावादस्थिरत्वाच्च? कूटस्थं प्रपञ्चाधिष्ठितम्? अचलं मच्चरणात्मकं अतएव ध्रुवं नित्यं एतादृशम् अक्षरम्।