Sbg 12.3 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।12.3।।वक्ष्यामस्तदुपरिष्टादित्युक्तं प्रश्नपूर्वकं प्रकटयति -- किमित्यादिना। पूर्वेभ्यः फलतो विशेषार्थस्तुशब्दः। अव्यक्तत्वमनिर्देश्यत्वे हेतुरित्याह -- अव्यक्तत्वादिति। यतोऽव्यक्तमतोऽनिर्देश्यमिति योजना। निरुपाधिकेऽक्षरे कथमुपासनेति पृच्छति -- उपासनमिति। शास्त्रतोऽक्षरं ज्ञात्वा तदुपेत्यात्मत्वेनोपगम्योपासते तथैव तिष्ठन्ति पूर्णचिदेकतानमक्षरमात्मानमेव सदा भावयन्तीत्येतदिह विवक्षितमित्याह -- यथेति। अव्यक्तत्वमेवाचिन्त्यत्वेऽपि हेतुरित्याह -- यद्धीति। कूटस्थशब्दस्योक्तार्थत्वं वृद्धप्रयोगतः साधयति -- कूटरूपमिति। आदिपदमनृतार्थम्। प्रकृते किं तदनृतं कूटशब्दितमित्याशङ्क्याह -- तथाचेति। उक्तरीत्या कूटशब्दस्यानृतार्थत्वे सिद्धे यदनेकस्य संसारस्य बीजं निरूप्यमाणं नानाविधदोषोपेतंतद्धेदं तर्ह्यव्याकृतं?मायां तुं प्रकृतिंमम माया इत्यादौ मायाशब्दिततया प्रसिद्धमविद्यादि तदिह कूटशब्दितमित्यर्थः। तत्रावस्थानं केन रूपेणेत्याशङ्कायामाह -- तदध्यक्षतयेति। कूटस्थशब्दस्य निष्क्रियत्वमर्थान्तरमाह -- अथवेति। पूर्वमुपजीव्यानन्तरविशेषणद्वयप्रवृत्तिमाह -- अतएवेति।