Sbg 12.20 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।12.20।।उक्तभक्तिरूपमुपसंहरति -- ये त्विति। य इति सामान्योक्त्या नात्र वर्णादिनियमः किन्तु ये केचन भाग्यवन्त इदं पुरत उक्तं धर्म्यामृतम् अक्षयं मत्प्रसादात्मकफलरूपं यथोक्तं श्रद्दधानाः मदुक्तं सत्यमिति ज्ञानवन्तो मत्परमाः मदेकनिष्ठाः सन्तः पर्युपासते मां सेवन्ते ते भक्ता मे अतीव स्वात्मनः प्रिया भवन्तीत्यर्थः।नाऽहमात्मानमाशासे [भाग.9।4।64] इतिवत्।


एवमर्जुनमासिञ्चद्भक्तियोगामृतोक्तिभिः। सर्वसंशयमाच्छिद्य लोकोद्धारपरो हरिः ।।1।।