Sbg 12.1 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।12.1।।अर्जुन उवाच -- एवंमत्कर्मकृत् (गीता 11।55) इत्यादिना उक्तेन प्रकारेण सततयुक्ताः भगवन्तं त्वाम् एव परं प्राप्यं मन्वाना ये भक्ताः त्वां सकलविभूतियुक्तम् अनवधिकातिशयसौन्दर्यसौशील्यसार्वज्ञ्यसत्यसंकल्पत्वाद्यनन्दगुणसागरं परिपूर्णम् उपासते? ये च अपि अक्षरं प्रत्यगात्मस्वरूपं तद् एव च अव्यक्तं चक्षुरादिकरणेन अनभिव्यक्तस्वरूपम् उपासते? तेषाम् उभयेषां के योगवित्तमाः के स्वसाध्यं प्रति शीघ्रगामिनः इत्यर्थः।भवामि न चिरात्पार्थ मय्यावेशितचेतसाम्।। (गीता 12।7) इति उत्तरत्र योगवित्तमत्वं शैघ्र्यविषयम् इति हि व्यञ्जयिष्यते।