Sbg 12.1 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।12.1।।पुरुषोत्तमभक्तानामक्षराभिनिवेशिनाम्। स्वरूपतारतम्यार्थं श्रीकृष्णं ह्यर्जुनोऽब्रवीत्।।1।।


पूर्वाध्यायान्तेमत्कर्मकृत् [11।55] इत्यनेन भक्तानां स्वभजनैकनिष्ठानां स्वप्राप्तिरुक्ता? पूर्वं चाष्टमाध्यायेयदक्षरं वेदविदो वदन्ति [11] इत्यारभ्यस याति परमां गतिम् [8।13] इत्यन्तमक्षरोपासकानां परमगतिरुक्ता? एतदुभयोस्तारतम्यजिज्ञासुरर्जुनो भगवन्तं विज्ञापयति -- एवमिति। एवं पूर्वोक्तप्रकारेण सर्वसङ्गपरित्यागेन अनन्यभक्ता ये त्वां प्रकटमानन्दरूपं पर्युपासते ध्यायन्ति तेषामुभयेषां मध्ये के योगवित्तमाः अतिशयितत्वत्संयोगविदः श्रेष्ठा इत्यर्थः। तान् कृपया आज्ञापयेति भावः।