Sbg 12.1 scjaya
Sanskrit Commentary By Sri Jayatritha ।।12.1।।एतदध्यायप्रतिपाद्यमर्थमाह -- अव्यक्ते ति। अव्यक्तं श्रीः? तदुपायं भगवदुपासनोपायम्। तदुपायप्रदर्शनं च भगवदुपासनाधिक्यसमर्थनार्थमित्येकार्थता? षट्कान्तर्भावश्च। अर्जुनस्य प्रश्नसङ्गतिप्रदर्शनेनैवानन्तर्यलक्षणाऽपि सङ्गतिर्ज्ञायते। ननु भगवदुपासनमिवाव्यक्तोपासनमपि यदि मोक्षसाधनत्वेन प्रमितं स्यात्? तदा तत्साधकाधिक्यविषयः संशयः स्यात्। तदेव कुतः तथा च कथमयं संशयमूलोऽर्जुनस्य प्रश्नः नहि भिन्नफलसाधनसाधकानां निर्धारणार्थः प्रश्नो युज्यते? किन्तु साध्यनिर्धारणार्थ एव न च तथा प्रकृतोयावानर्थः [2।46] इत्यादिना निरस्तत्वादित्यत आह तदुपासनमपी ति। श्रियं प्रति वसाना वसन्तस्तामाच्छाद्य स्थिताः? उपासीना इति यावत्। तेषां समिथा समीहितानि सत्यानि भवन्ति। मितद्रौ समुद्रे क्षीराब्धौ। श्रीशब्दस्यान्यतोऽपि प्रवृत्तेः अव्यक्तविषयामेव श्रुतिं पठति -- अनादीति । निचाय्य सम्पूज्य निशाम्य वा। अत्रापि नाव्यक्तं श्रूयत इत्यत आह -- अव्यक्तं चे ति। चोऽवधारणे। कुत एतत् परमात्मनोऽपि तत्सम्भवादित्यत आह -- महत इति । अत्र हि तं महतः परमिति परमर्शो दृश्यते? स चोक्तस्यैव भवति? अव्यक्तमेव च महतः परमव्यक्तं [कठो.3।11] इति महतः परत्वेनोक्तम् अतोऽत्राप्यव्यक्तग्रहणे तमित्ययंमहतः परमव्यक्तं इत्युक्तस्य परामर्श इत्युपपद्यते। अन्यथाऽनुक्तपरामर्शः प्रसज्यते। परमात्मा तु न महतः पर इत्युक्तः किन्तु अव्यक्तात्पुरुषः परः [कठो.3।11] इत्येवेत्यर्थः।श्रुतिद्वयार्थसंग्राहिकां स्पष्टां चात्र श्रुतिमुदाहरति -- उपास्ये ति। नन्वेवं प्रतीयमानमपि अव्यक्तोपासनस्य मोक्षसाधनत्वमुपचरितमेवअन्तवत्तु फलं तेषां [7।23] इत्युक्तन्यायात् अतो नास्य सन्देहहेतुत्वमित्यत आह -- महच्चे ति। तस्याः श्रियः युक्तं ब्रह्माद्युपासनस्य मोक्षसाधनतायां उपचरितत्वकल्पनम्? तेषां जननमरणादिमत्त्वेनासम्भवात्। श्रियस्तु महामाहात्म्यवत्त्वेन वेदोक्तत्वादसम्भवाभावात्। वास्तवमेव तदुपासनस्य मोक्षसाधनत्वमित्यर्थः। सुपेशा सुरूपा घृतप्रतीका दीप्ताङ्गी वयुनानि ज्ञानानि वस्ते आच्छादयति? ज्ञानालंकृतेति यावत्। सुपर्णा सुष्ठु परमानन्दौ? वृषणा सेवकौ? द्विरूपो भगवानेव। यत्र यस्यां विषये। अत्र नित्ययौवनं ज्ञानमयत्वं सर्वदेवतापूज्यत्वं च प्रतीयते। एवमुत्तरत्र।रुद्राद्यैः परिवृता राष्ट्री राज्ञी यज्ञियानां यज्ञार्हाणां वसूनां पदार्थानां देवानां वा सङ्गमनी सङ्गमयित्री। प्रथमा चिकितुषी अनादितः सर्वत्र कृतनिवासा। पुरुत्रा पुरुस्थानेषु व्यदधुः कृतवन्तः पूजार्थं प्रतिष्ठापितवन्तः। भूरिस्थात्रां स्वतो भूरिस्थानेषु स्थिताम्। भूरिस्थानेषु देवानावेशयन्तीम्। योऽन्नमत्ति स मयैवात्तीत्यादि। ये अमन्तवो निरपराधास्ते मामुपक्षियन्ति मत्समीपे वसन्ति। श्रुधि शृणु। श्रुत प्रसिद्ध। श्रद्धिवं श्रद्धेयम्। यमुग्रं रुद्रं कर्तुं कामये तं तमुग्रं कृणोमि करोमीत्यादि। सुमेधां सुमेधसम्। रुद्रायेत्यादिचतुर्थी द्वितीयार्थे। ब्रह्मद्विषे संहारकाले ब्राह्मणादिसर्वप्राणिद्विषम्। यद्वा ब्रह्मद्विषां शरवे हिंसकं हन्तवा उ हन्तुमेव। अस्य जगतः पितरं हिरण्यगर्भं मूर्धनि सर्वाधिक्ये। योनिः कारणम्। दिवेत्यादितृतीया पञ्चम्यर्थे। एना एतस्याः महिना महिम्नाऽहमेतावतो सम्बभूवेत्यादिनोच्यते। भवत्वेवं ततः किं असन्दिग्धतया भगवन्तमेवोपासीनस्यार्जुनस्य कथमयं संशयो येनैवं पृच्छति इत्यत आह -- इती ति। यत एवं भगवदुपासनस्येवाव्यक्तोपासनस्यापि विनोपचारेण मोक्षसाधनत्वं प्रतीयत इति। तस्मान्मार्गद्वयेनैकमेव फलं प्राप्नुवतां मध्ये के श्रेष्ठा इति साधकबाधकप्रमाणाभावेन शङ्कासंशयः कस्यचिदविदिततत्त्वस्य भवति? अतस्तदनुजिघृक्षया भगवदुपासका एव श्रेष्ठा इति जानन्नप्यर्जुनः पृच्छतीत्यर्थः। अथवा जानन्नपि तत्र स्वाविदितयुक्तिज्ञानार्थं संशयमाहृत्य पृच्छतीत्याह -- सूक्ष्मे ति। योग्यतावशादेवम्भूतं त्वामेवं प्रकारेणोपासत इत्युभयत्रैवं शब्दस्यान्वय इत्याशयवानाह -- एवमि ति। दृष्टं श्रुतं च रूपं यस्य ब्रह्मणस्तत्तथा।अव्यक्ताक्षरशब्दयोरपव्याख्यानं निराकर्तुमर्थं तावदाह -- अव्यक्तमि ति। प्रकृतिश्चेतना त्रिगुणं त्रिगुणाभिमानित्वात्। सदसदात्मकं कार्यकारणाभिमानित्वात्। अविशेषं अकार्यं ततः प्रधानं प्राहुः विशेषवत् कार्यवत्। ततः प्रकृतिं प्राहुः तत्प्रकृत्याख्यं तत्त्वम्। परतः परोऽत्युत्तमः। अत्राव्यक्तमिति विशेष्यवाची। अक्षरमिति विशेषणवाची अव्यक्तासक्तचेतसाम्।अव्यक्ता हि गतिः [12।5] इत्यादिवचनात्। अतो व्युत्क्रमेण व्याख्यानम्। विशेषणोपादानं च देवतान्तरवैलक्षण्यप्रदर्शनेन प्रश्नसम्भावनार्थम्। एतदेव भाष्यकृता महच्चेत्यादिना प्रपञ्चितम्। अन्ये तुये त्वां भगवन्तं वासुदेवमुपासते? ये चाप्यक्षरमव्यक्तं परं ब्रह्म तेषां के योगवित्तमाः इति व्याचक्षते तदसदित्याह -- परं त्वि ति।आनन्दं इत्यादेः पूर्वेणोत्तरेण चान्वयो द्रष्टव्यः। तथा च ये त्वां,पर्युपासते ये च त्वामित्युक्तं स्यात्। तथा चोन्मत्तप्रलापत्वप्रसङ्ग इति भावः। ननु भगवान्करचरणादिमद्रूपवान्? परं ब्रह्म तु नेदृशरूपवत्। अशब्दमस्पर्शमरूपम् [कठो.3।15] इत्यादिश्रुतेः। अतः कथमेतत् इत्यत आह -- रूपं चे ति। पराभ्युपगतस्य ब्रह्मणोऽपीति शेषः। अस्तु भगवानेव परं ब्रह्म? किन्तु ये त्वामेवं साकारमुपासते ये चाव्यक्तं निराकारं तेषां के योगवित्तमा इति प्रश्नार्थ इत्यत आह -- उपासनं चे ति। तथैव रूपवत्तयैव। स्यादयं प्रश्नार्थो यदि रूपवत्त्वारूपवत्त्वाभ्यां भगवदुपासनं कार्यं स्यात् न त्वेतदस्ति? किन्तु रूपवत्तयैवान्यस्य मिथ्योपासनत्वेनानर्थहेतुत्वादिति भावः। कुत एतत् इत्यत आह -- सहस्रे ति। आरभ्येत्यनेन ब्राह्मणोऽस्य मुखमासीत् [ऋक्सं.8।4।19।2] इत्यादेः आदित्यवर्णं तमसस्तु पारे [चित्यु.12।7] इत्यादेश्च ग्रहणम्। अभ्यासशब्देन तत्फलनियमो लक्ष्यते। श्रुतिः साकारोपासनं मोक्षसाधनमाहेति शेषः। नन्वत्रोच्यमान आदित्यवर्णत्वादिराकारः अतमस्कत्वादिसादृश्यादुपचरित एवेत्यत आह -- आदित्ये ति। वृथा बाधकेन विना उपचर्यत इत्युपचारः। केचित् सहस्रशीर्षा इत्यादिकं हिरण्यगर्भविषयमिति मन्यन्ते अतस्तद्विधूय ईश्वरविषयतया स्वमतं गृहीतुमादित्येत्यादीत्युक्तम्। उपचारानर्ही चात्र श्रुतिमाह -- तथा चे ति। स्थाणुः? रुद्रः प्राजापत्यः? प्रजापतेरपत्यम्। साधुभिः साधकैः तारकं संसारस्य। तारः ङ्कारः आप्तरुचेर्व्याप्ततेजसः। लोमेति केशवचनम्। लोमपादेति द्वन्द्वः। न विद्यन्ते लोमान्तपादाद्यवयवा यस्यासावलोमपादः? तं स्थाणुमुवाच प्रजापतिः। सुवर्णः सुवर्णवर्णः। अत्र मुमुक्षुभिः को ध्येय प्रश्नः। इत्यकः तारावाच्यं तारकं वस्तु किमिति द्वितीयः। तस्य ध्यानं कथं स्यात् किं साकारतयोत निराकारत्वेन नाद्यः? अलोमपादो ह्यसावुच्यते। न द्वितीयः? बुद्धावनारोहात् इति तृतीयः? तत्राद्यद्वितीययोरर्थतो न भेदः। तारकस्यैव मुमुक्षुध्येयत्वादित्यभिप्रेत्य द्वयोरेकमेवोत्तरमाह यस्त्वया मुमुक्षुध्येयः तारकः पृष्टः एष विष्णुरिति। यद्यप्यसावलोमपाद उच्यते तथापि तस्य साकारतयैव ध्यानं वदामीति तृतीयस्य यदि ब्रह्म साकारमेव तद्ध्यानं च तथैव कार्यम्। तर्हि अशब्दमस्पर्शमरूपमव्ययम् [कठो.3।15] इत्यादेः का गतिः इत्यत आह -- अरूपत्वादेस्त्वि ति। लौकिकरूपाद्यभावरूपा एतेनालोमपाद इत्यस्याभिप्रायोऽप्युक्तो भवति। इतोऽपि न परोक्तः प्रश्नार्थ इत्याह -- पुरुषेति । एवं हि व्याख्याने ध्येयस्यैव ध्यानं द्वेधेत्युक्तं स्यात्। अत्र तु ध्येयौ पुरुषौ द्वौ प्रतीयेते। अतश्च नैवमित्यर्थः। प्रश्नस्यैकध्येयविषयतया कथञ्चिद्व्याख्यानेऽप्युत्तरं निरवकाशमित्याशयेनादिग्रहणं कृतम्। किञ्च साकारोपासनेन विशुद्धाशये निराकारमुपास्त इत्येकस्यैव क्रमेण ध्येयद्वयमिति परेषां सिद्धान्तः? अत्र तूपासकपुरुषभेदः प्रतीयते ततोऽपि नान्योऽर्थ इत्याह -- पुरुषेति । उत्तरापव्याख्याननिराकरणं तु तात्पर्यनिर्णय इत्युक्तमेव व्याख्यानमिति स्थितम्।