Sbg 12.18 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।12.18।।किञ्च -- सम इति। शत्रौ द्वेषकर्तरि? मित्रे अनुरागवति समः? स्वतो द्वेषानुरागरहित इत्यर्थः। तथा मानापमानयोरपि समः। शीतोष्णयोर्दैहिकयोः सुखदुःखयोः पुत्रजन्ममरणादिरूपयोः समः। सङ्गवर्जितः लौकिकासक्तिरहितः।