Sbg 12.16 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।12.16।। अनपेक्षः -- आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि अनपेक्षः? शुचिः -- शास्त्रविहितद्रव्यवर्धितकायः? दक्षः -- शास्त्रीयक्रियोपादानसमर्थः अन्यत्र उदासीनः? गतव्यथः -- शास्त्रीयक्रियानिर्वृत्तौ अवर्जनीयशीतोष्णपरुषस्पर्शादिदुःखेषु व्यथारहितः? सर्वारम्भपरित्यागी -- शास्त्रीयव्यतिरिक्तसर्वकर्मारम्भपरित्यागी? य एवंभूतो मद्भक्तः स मे प्रियः।