Sbg 12.16 scmad
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhavacharya ।।12.16।।सर्वारम्भपरित्यागी इत्यादेः सामान्यविशेषव्याख्यानव्याख्येयभावेनापुनरुक्तिः। हर्षादिभिर्मुक्त इत्युक्ते कादाचित्कमपि भवतीतियो न हृष्यति [12।17] इत्युक्तम्। उपचारपरिहारार्थं पूर्वम् आधिक्यज्ञानार्थं भक्त्यभ्यासः।ये तु सर्वाणि कर्माणि [12।6] इत्यादेः प्रपञ्च एषः।