Sbg 12.15 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।12.15।।अथ निर्ममत्वादिफलभूतं लोकोद्वेगकरकर्मत्यागरूपं गुणं विदधत्तत्फलयोगं च दर्शयति -- यस्मात् इति श्लोकेन। यच्छब्दावृत्तिमात्रेणाधिकार्यन्तरत्वशङ्कानिवृत्त्यर्थंयस्मात्कर्मनिष्ठादित्युक्तम्। लोकगताया उद्वेगनिवृत्तेः कर्मनिष्ठं प्रति विधातुमशक्यत्वादुद्वेगकारणभूतकर्मनिवृत्तिर्विधेयत्वेन विवक्षितेति दर्शयतियो लोकोद्वेगकरमिति। अपकाररूपत्वाभावेऽप्यश्लीलभाषणादिमात्रेणापि हि लोकोद्वेगो जायत इत्यभिप्रायेणकञ्चिदपीत्युक्तम्। एतेनअद्वेष्टा [12।13] इत्यादिना पूर्वोक्तात्समः शत्रौ च [12।18] इत्यादिना वक्ष्यमाणाच्च वैषम्यं सिद्धम्।लोकान्नोद्विजते च यः इत्यत्रापि हेत्वभावे तात्पर्यम्? अन्यथा पूर्वोत्तरपौनरुक्त्यप्रसङ्गात्। अस्मिन्नपि श्लोकेहर्षामर्षभयोद्वेगैर्मुक्तः इत्युद्वेगाभावस्य विहितत्वात्यस्मान्नोद्विजते इत्यनेन भिन्नरीतित्वप्रसङ्गाच्चेत्यभिप्रायेणाहयमुद्दिश्येति। लोकगतोद्वेगकरकर्मनिवृत्तिरपि नास्य विधेयेति विधेयं दर्शयितुं लोकस्य तथाविधकर्माकरणे हेतुमाहसर्वेति। यथा सर्वाविरोधित्वेन कर्मनिष्ठं लोको निश्चिनुयात्? तथाऽसौ कर्मनिष्ठो वर्तेतेत्युक्तं भवति।यो न हृष्यति न द्वेष्टि [12।17] इति वक्ष्यमाणादत्र हर्षादेर्विषयभेदेन निवर्तकभेदेन च वैषम्यज्ञापनायाहअत एव कञ्चन प्रतीति।अत एवेति उपकारापकारादिहेतुभेदाभावादित्यर्थः।कञ्चन प्रत्युद्वेगेनेति
भयादेः
पृथगुक्तत्वाद्भयकार्यभूतं कर्म वा जुगुप्सा वाऽत्रोद्वेगः।यस्मान्नोद्विजते इत्यादिवाक्यत्रयार्थसङ्कलनेनाहय एवम्भूत इति। पूर्वश्लोकोक्तमैत्रत्वकरुणत्वादिगुणगणाभावेऽपि लोकोद्वेगकरकर्मनिवृत्तिमात्रेणापि प्रीतो भवामीतिस च इत्यादिनोच्यत इत्याह -- सोऽपीति।