Sbg 12.15 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।12.15।। --, यस्मात् संन्यासिनः न उद्विजते न उद्वेगं गच्छति न संतप्यते न संक्षुभ्यति लोकः? तथा लोकात् न उद्विजते च यः? हर्षामर्षभयोद्वेगैः हर्षश्च अमर्षश्च भयं च उद्वेगश्च तैः हर्षामर्षभयोद्वेगैः मुक्तः हर्षः प्रियलाभे अन्तःकरणस्य उत्कर्षः रोमाञ्चनाश्रुपातादिलिङ्गः? अमर्षः असहिष्णुता? भयं त्रासः उद्वेगः उद्विग्नता? तैः मुक्तः यः स च मे प्रियः ।।