Sbg 12.15 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।12.15।।स च निरहंकारो द्विविधः। समाधिस्थो व्युत्थितश्च। तयोर्लक्षणं क्रमेणाह द्वाभ्याम् -- यस्मादिति। यस्मात्समाधिस्थत्वेन काष्ठसमाल्लोको नोद्विजते न त्रस्यति। लोकादपि यो निर्मनस्कत्वान्नोद्विजते। अतएव हर्ष इष्टलाभे सति मनस उत्फुल्लता। अमर्षोऽसहिष्णुता। भयमात्मोच्छेदशङ्का। उद्वेगस्तत्कृतैव व्याकुलता। एतैर्निर्मनस्कत्वादेव स्वयमेव मुक्तस्त्यक्तः। नत्वेतान्स्वयं त्यक्तुं यतते साधकवत्। ईदृशो यो मद्भक्तः स च मे प्रियः।