Sbg 12.13 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।12.13।।तस्य स्वरूपमाह -- अद्वेष्टेति। सर्वभूतानां प्राणिमात्राणां मत्क्रीडात्मकत्वात् अद्वेष्टा आधिक्यादिदर्शने द्वेषरहितः मैत्रः भक्तेषु मित्रतया वर्त्तमानः करुणः भक्तिरहितेषु संसारदुःखनिश्चयात् करुणः उपदेशादिदानार्थं करुणावान्। एकारेण न कदाचित् कर्कशस्तिष्ठेदिति ज्ञापितम्। निर्ममः उपदेशदानानन्तरं तेषु सर्वत्र च ममत्वरहितः? निरहङ्कारः स्वस्योत्तमत्वज्ञानेनाऽहङ्काररहितः समदुःखसुखः समे दुःखसुखे वियोगसंयोगात्मके यस्य? क्षमी क्षमावान् दुष्टकृतावमानादिसहनशीलः।