Sbg 12.13 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।12.13।।परमप्रकृतस्याक्षरस्योपासकं स्तौति तद्गुणकथने हि साधकानां तेषु गुणेष्वादरो भविष्यतीति बुद्ध्याह -- अद्वेष्टेति। अद्वेष्टा चेदुदासीनः स्यान्नेत्याह। मैत्रः मित्रमेव मैत्रो नतूदासीनः कदाचिदपि। नन्वन्यस्मिन् शत्रौ सति कथं मैत्रत्वं स्यात्तत्राह -- करुण इति। दुःखदातारमपि करुणया न बाधितुमीष्टे अपितु त्रातुमेवेच्छति। एतेन सर्वभूताभयप्रदः संन्यासी उक्तः। अतएव तस्य निर्मम इति विशेषणं युज्यते। मुख्यमक्षरविदो लक्षणं निरहंकार इति। अहंकारो हि सर्वानर्थनिदानं स एव निर्गतो यस्मात्स निरहंकारः। अतएव समे दुःखसुखे यस्य।तत्र को मोहः कः शोक एकत्वमनुपश्यतः इति श्रुतेः। क्षमी क्षमावान्परिभवप्राप्तावपि स्वस्थचित्तः। अन्योऽपि मुमुक्षुरेतान्धर्माननुतिष्ठेदित्यर्थः।