Sbg 12.12 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।12.12।।अत्यर्थप्रीतिविरहितात् कर्कशरूपात् स्मृत्य भ्यासाद् अक्षरयाथात्म्यानुसंधानपूर्वकं तदापरोक्ष्य ज्ञानम् एव आत्महितत्वे विशिष्यते आत्मापरोक्ष्य ज्ञानाद् अपि अनिष्पन्नरूपात् तदुपायभूतात्म ध्यानम् एव आत्महितत्वे विशिष्यते? तद् ध्यानाद् अपि अनिष्पन्नरूपात् तदुपायभूतं फलत्यागेन अनुष्ठितं कर्म एव विशिष्यते।अनभिसंहितफलाद् अनुष्ठितात् कर्मणः अनन्तरम् एव निरस्तपापतया मनसः शान्तिः भविष्यति शान्ते मनसि आत्मध्यानं संपत्स्यते ध्यानाद् ज्ञानं ज्ञानात् च तदापरोक्ष्यं तदापरोक्ष्यात् परा भक्तिः इति भक्तियोगाभ्यासाशक्तस्य आत्मनिष्ठा एव श्रेयसी। आत्मनिष्ठस्य अपि अशान्तमनसो निष्ठाप्राप्तये अन्तर्गतात्मज्ञानानभिसंहितफलकर्मनिष्ठा एव श्रेयसी इत्यर्थः।।अनभिसंहितफलकर्मनिष्ठस्य उपादेयान् गुणान् आह --