Sbg 12.12 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।12.12।।तदिदं तात्पर्यमुपसंह्रियते -- श्रेय इति। ज्ञानम् आवेशात्म अभ्यासाच्छ्रेयः (S??N आवेशात्मा -- श्रेयान्) ? अभ्यासस्य तत्फलत्वात्। तस्मादेवावेशात् ध्यानं भगवन्मयत्वं विशिष्यते याति? अभिमतप्राप्त्या। सति ध्याने (S सति ध्यानेन ?N प्राप्त्यासत्तिव्यानेन) भगवन्मयत्वे कर्मफलानि संन्यसितुं युज्यन्ते। अन्यथा अज्ञातरूपे (?N रूपत्वे) क्व संन्यासः कर्मफलत्यागे च आत्यन्तिकी शान्तिः। अतः सर्वमूलत्वात् आवेशात्मकं ज्ञानमेव प्रधानम्।