Sbg 11.55 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।11.55।।नाहं वेदैः इत्यादेः वेदानुवचनेन [बृ.उ.4।4।22] इत्यादिश्रुतिविरोधपरिहाराय भक्त्यङ्गभावेन वेदानुवचनादीनामुपयोगं वदन्प्रवेष्टुम् इत्युक्तं प्राप्तिहेतुं भक्त्यवस्थाविशेषं विविनक्ति -- मत्कर्मकृदिति।नाहं वेदैः इत्यादिनोक्तान्येव कर्माणि भगवति समर्पणान्मत्कर्मशब्देनोच्यन्ते? कीर्तनादीनि तु प्रागुक्तानि भक्त्यन्तर्गतत्वान्मद्भक्तशब्देऽनुप्रवेशमर्हन्तीत्यभिप्रायेणाहवेदाध्ययनेति। कर्मप्रसङ्गात्तत्साध्यतया बुद्धिस्थं फलमिह मत्परमशब्देनोच्यत इत्याहसर्वेषामिति। लौकिकानामन्नपानादिस्थानेऽस्य कीर्तनादिकमित्यभिप्रायेणाहआत्मधारणमलभमान इति। भक्तेः काष्ठाप्राप्तिदशायां यादृशी निस्सङ्गता? तां सहेतुकां दर्शयतिमदेकप्रियत्वेनेति। तृषितस्यामृतधारायां तृणादिनिरोधवन्मन्यमानं सङ्गमेवैनं यथा स्वयं विरक्तो वर्जयति? तथा स्वयं सङ्गे जातोद्वेग इत्यभिप्रायेणइतरसङ्गमसहमान इत्युक्तम्। तादृश्यां भक्तिकाष्ठायां न केवलं शास्त्रवश्यत्वेन निर्वैरता अपितु कारणाभावात् कार्याभाव इत्याहमत्संश्लेषेति। परमात्मनि रक्ततया तदितरविरक्तस्य सांसारिकक्षुद्रसुखदुःखयोरुपेक्षकत्वात्तन्निवर्तकेषु तत्प्रवर्तकेषु च नास्य वैरसम्भवः। नच स्वापराधं जानतः परो द्वेषविषयः नच कशादिवत्परतन्त्रतयाऽवगताय कश्चिदनुन्मत्तः कुप्येत् आत्मन इव परेषामपि विश्वरूपभगवद्रूपत्वानुसन्धाने कथं वैरावकाशः इति भावः।एवम्भूतः एवंविधः।प्रवेष्टुम् [11।54] इति प्रागुक्तानुसन्धानेनाह -- मां यथावदवस्थितमिति। प्रवेशप्राप्त्यादिशब्दानामन्यार्थतां कुदृष्ट्यभिमतां निराकर्तुं परमनिश्श्रेयसरूपायाः प्राप्तेः स्वरूपं शोधयतिनिरस्तेति। निरस्तत्वमपुनरङ्कुरविनष्टत्वम्। अविद्या अज्ञानान्यथाज्ञानतत्कारणकर्मादिरूपा। पूर्वावस्थायामपि कतिपयाविद्यादिनिवृत्तिरस्तीति तद्व्यवच्छेदायाशेषपदम्। सवासननिरासद्योतनाय गन्धशब्दः।मदेकानुभव इति -- सर्वं ह पश्यः पश्यति [छां.उ.7।26।2] इत्युक्तं सर्वमपि सर्वशरीरोऽहमेव। तथाच श्रुत्यन्तरं ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति [मुं.उ.3।3।5] इति -- इति भावः।इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुश्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां एकादशोऽध्यायः।।11।।