Sbg 11.52 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।11.52।।ततः एवं स्थितौ स्वरूपस्य सुदुर्दर्शत्वं निरूपयन्प्रसङ्गादनुग्रहभक्त्यैकगम्यत्वं स्वस्य निगमयति त्रिभिः -- सुदुर्दर्शमिति। इदं मत्सम्बन्धि रूपमक्षरं विश्वरूपं यत्त्वं दृष्टवानसि? यतोऽहं सुदुर्दर्शस्तदा किं वाच्यं मत्सम्बन्धिरूपमिदमिति तदेवाह -- देवा अपीति। सात्विका अपि ते नित्यं दर्शनकाङ्क्षिणः? न तु दृष्टवन्तोऽपि अनुग्रहबीजभावाभावात्।