Sbg 11.52 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।11.52।।स्वकृतस्यानुग्रहस्यातिर्दुलभत्वं दर्शयन् चतुर्भिः श्रीभगवानुवाच -- सुदुर्दर्शमिति। मम यद्रूपमिदानीं त्वं दृष्टवानसि इदं विश्वरूपं सुदुर्दर्शं अत्यन्तं द्रष्टुमशक्यं। यतो देवा अप्यस्य रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणो नतु त्वमिव पूर्वं दृष्टवन्तो न वाऽग्रे द्रक्ष्यन्तीत्यभिप्रायः। दर्शनाकाङ्क्षया नित्यत्वोक्तिः।