Sbg 11.50 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।11.50।।एवं सञ्जय उवाच -- इतीति। स्वकं पूर्वं प्रदर्शितरूपं चतुर्भुजं दर्शयामास। तथापि सख्यसारथ्यादिकमनुचितं मत्वा रथादुत्तीर्य स्तोतुकामं पार्थमवलोक्य पुनः सौम्यवपुर्द्विभुज एव लोके सम्मत -- (संभवत्) -- स्वरूप एव भक्तप्रार्थनया भूत्वा पुरुषोत्तमोऽचिन्त्ययोगेश्वरो विभुर्महात्मा भीतमेनं आश्वासयामास। अत्र सौम्यपदमेव सर्वापेक्षया भयाभावसूचकं द्विभुजरूपं प्रत्याययति। अन्यथाभूयः पुनश्च इति पौनरुक्त्यं स्यात्। वदति चाग्रेदृष्ट्वेदं मानुषं रूपं [11।51] इति।