Sbg 11.50 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।11.50।।एतद्वृत्तान्तं धृतराष्ट्राय संजयो निवेदितवानित्याह -- संजय उवाच। इत्येवमर्जुनं वासुदेवस्तथाभूतं वचनमुक्तवा। वासुदेव इत्यनेन स्वकमित्यस्य वसुदेवगृहे जातं स्वकीयं रुपमित्यर्थ सूचयति। दर्शयामास दर्शितवान् पुनःपुनराश्वसितवान्।,च पुनः सौम्यवपुः प्रसन्नदेहो भूत्वा। नन्वेवं क्षणिकचित्तेऽर्जुने क्षोभं कुतो न कृतवानित्याशङ्कानिवृत्त्यर्थमाह। महात्मा कारुण्यादिगुणगणाकरस्तस्य भगवतो युक्तमेव पूर्वपरिचितसौम्यवपुःप्रदर्शनेनार्जुनाश्वासनमिति भावः।