Sbg 11.50 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।11.50।।तदिदं वृत्तं राज्ञे सूतो निवेदितवानित्याह -- संजय इति। तथाभूतं वचनं मया प्रसन्नेनेत्यादिचतुर्भुजं रूपं। किं तस्य रूपस्य परिचितपूर्वस्य प्रदर्शनेन प्रसन्नदेहत्वेन चार्जुनं प्रत्याश्वासनं भगवतो युक्तमित्यत्र हेतुमाह -- महात्मेति।