Sbg 11.48 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।11.48।।एतद्दर्शनमतिदुर्लभं लब्ध्वा त्वं कृतार्थोऽसीत्याह -- नेति। वेदाध्ययनातिरेकेण यज्ञाध्ययनस्याभावात्। यज्ञशब्देन यज्ञविद्यायाः कल्पसूत्राद्या लक्ष्यन्ते। वेदानां यज्ञविद्यानां चाध्ययनैरित्यर्थः। नच दानैर्न च क्रियाभिरग्निहोत्रादिभिर्न चोग्रैस्तपोभिश्चान्द्रायणादिभिरेवंरूपोऽहं त्वदन्येन मनुष्यलोके द्रष्टुं शक्यः? अपितु त्वमेव केवलं मत्प्रसादेन दृष्ट्वा कृतार्थोऽसि।