Sbg 11.48 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।11.48।।एतद्रूपदर्शनात्मकमतिदुर्लभं मत्प्रसादं लब्ध्वा कृतार्थ एवासि त्वमित्याह -- न वेदेति। वेदानां चतुर्णामपि अध्ययनैरक्षरग्रहणरूपैः? तथा मीमांसाकल्पसूत्रादिद्वारा यज्ञानां वेदबोधितकर्मणामध्ययनैरर्थविचाररूपैर्वेदयज्ञाध्ययनैः? दानैस्तुलापुरुषादिभिः? क्रियाभिरग्निहोत्रादिश्रौतकर्मभिः? तपोभिः कृच्छ्रचान्द्रायणादिभिरुग्रैः कायेन्द्रियशोषकत्वेन दुष्करैः? एवंरूपोऽहं न शक्यः नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन मदनुग्रहहीनेन। हे कुरुप्रवीर? शक्योहमिति वक्तव्ये विसर्गलोपश्छान्दसः। प्रत्येकं नकाराभ्यासो निषेधदार्ढ्याय। नच क्रियाभिरित्यत्र चकारादनुक्तसाधनान्तरसमुच्चयः।