Sbg 11.43 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।11.43।।अचिन्त्यप्रभावमेवाह -- पितेति। न विद्यते उपमा यस्य सोऽप्रतिमः तथाविधः प्रभावो यस्य तव हे अप्रतिमप्रभाव? त्वमस्य चराचरस्य लोकस्य पिता जनकोऽसि। अतएव पूज्यश्च गुरुश्च गुरोरपि गरीयान् गुरुतरः अतो लोकत्रयेऽपि त्वत्सम एव तावदन्यो नास्ति परमेश्वरस्यान्यस्याभावात्? त्वत्तोऽभ्यधिकः पुनः कुतः स्यात्।