Sbg 11.43 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।11.43।। --, पिता असि जनयिता असि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य। न केवलं त्वम् अस्य जगतः पिता? पूज्यश्च पूजार्हः? यतः गुरुः गरीयान् गुरुतरः। कस्मात् गुरुतरः त्वम् इति आह -- न त्वत्समः त्वत्तुल्यः अस्ति। न हि ईश्वरद्वयं संभवति? अनेकेश्वरत्वे व्यवहारानुपपत्तेः। त्वत्सम एव तावत् अन्यः न संभवति कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् अप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा? न विद्यते प्रतिमा यस्य तव प्रभावस्य सः त्वम् अप्रतिमप्रभावः? हे अप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः।।यतः एवम् --,