Sbg 11.43 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।11.43।।अचिन्त्यप्रभावतामेव प्रपञ्चयति -- पितासीति। अस्य चराचरस्य लोकस्य पिता जनकस्त्वमसि। पूज्यश्चासि सर्वेश्वरत्वात्। गुरुश्चासि शास्त्रोपदेष्टा। अतः सर्वैः प्रकारैर्गरीयान् गुरुतरोऽसि। अतएव न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽपि। हे अमितप्रभाव? यस्य समोऽपि नास्ति द्वितीयस्य परमेश्वरस्याभावात्तस्याधिकोऽन्यः कुतः स्यात्। सर्वथा न संभाव्यत एवेत्यर्थः।