Sbg 11.43 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।11.43।।मयातीवानुचितमेव कुतं क्षमापनं च कर्तव्यमेव त्वया च क्षन्तव्यमेव। यतस्त्वं प्राणिनिकायस्य स्थावरजंगमस्य पिता जनकोऽसि पूज्यः पूजार्हश्चासि। यतो गुरुर्धर्मब्रह्मोपदेष्टा गरीयान् गुरुतरोसि। भगवतो गुरुतरत्वे हेतुमाह। न त्वत्समस्तुल्योऽस्ति द्वितीयस्येस्वरस्याभावात् ईश्वरसत्वे प्रत्येकमैकमत्ये कारणाभावात् नानामतित्वे चैकस्य संजिहीर्षायामपरस्य सिसृक्षासंभवात् अपरस्य पालनेच्छायामेकस्य संजिहीर्षासंभवात् व्यवहारलोपप्रसङ्गापत्त्यानेकेश्वरवादस्यायुक्तत्वादिति भावः। त्वत्तुल्य एवान्यो न संभवति। कुतएव लोकत्रयेऽपि सर्वस्मिन्लोकेऽन्योऽभ्यधिकः कुतोऽन्यो लोकत्रयेऽपीति वा हेतुहेतुमद्भावः। भाष्यस्योपलक्षणार्थत्वादविरोधः। हेऽप्रतिप्रभाव? प्रतिमीयते यया सा प्रतिमा उपमा न विद्यते उपमा यस्य स चौसौ प्रभावो यस्य स तथा। असस्त्वमेव सर्वेषां पित्रादिरिति भावः।